ऋग्वेदसंहिता · Mandala 3
सूक्तम् ३.५२
Ask AIऋषिः — गाथिनो विश्वामित्रः · दे. इन्द्रः। त्रिष्टुप्, १-४ गायत्री, ६ जगती
धानावन्तं करम्भिणमपूपवन्तमुक्थिनम् ।इन्द्र प्रातर्जुषस्व नः ॥१॥
पुरोळाशं पचत्यं जुषस्वेन्द्रा गुरस्व च ।तुभ्यं हव्यानि सिस्रते ॥२॥
पुरोळाशं च नो घसो जोषयासे गिरश्च नः ।वधूयुरिव योषणाम् ॥३॥
पुरोळाशं सनश्रुत प्रातःसावे जुषस्व नः ।इन्द्र क्रतुर्हि ते बृहन् ॥४॥
माध्यंदिनस्य सवनस्य धानाः पुरोळाशमिन्द्र कृष्वेह चारुम् ।प्र यत्स्तोता जरिता तूर्ण्यर्थो वृषायमाण उप गीर्भिरीट्टे ॥५॥
तृतीये धानाः सवने पुरुष्टुत पुरोळाशमाहुतं मामहस्व नः ।ऋभुमन्तं वाजवन्तं त्वा कवे प्रयस्वन्त उप शिक्षेम धीतिभिः ॥६॥
पूषण्वते ते चकृमा करम्भं हरिवते हर्यश्वाय धानाः ।अपूपमद्धि सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् ॥७॥
प्रति धाना भरत तूयमस्मै पुरोळाशं वीरतमाय नृणाम् ।दिवेदिवे सदृशीरिन्द्र तुभ्यं वर्धन्तु त्वा सोमपेयाय धृष्णो ॥८॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.