ऋग्वेदसंहिता · Mandala 3
सूक्तम् ३.५
Ask AIऋषिः — गाथिनो विश्वामित्रः · दे. अग्निः। त्रिष्टुप्
प्रत्यग्निरुषसश्चेकितानोऽबोधि विप्रः पदवीः कवीनाम्।पृथुपाजा देवयद्भिः समिद्धोऽप द्वारा तमसो वह्निरावः॥ १ ॥
प्रेद्वग्निर्वावृधे स्तोमेभिर्गीर्भिः स्तोतॄणां नमस्य उक्थैः।पूर्वीर्ऋतस्य संदृशश्चकानः सं दूतो अद्यौदुषसो विरोके॥ २ ॥
अधाय्यग्निर्मानुषीषु विक्ष्वपां गर्भो मित्र ऋतेन साधन्।आ हर्यतो यजतः सान्वस्थादभूदु विप्रो हव्यो मतीनाम्॥ ३ ॥
मित्रो अग्निर्भवति यत्समिद्धो मित्रो होता वरुणो जातवेदाः।मित्रो अध्वर्युरिषिरो दमूना मित्रः सिन्धूनामुत पर्वतानाम्॥ ४ ॥
पाति प्रियं रिपो अग्रं पदं वेः पाति यह्वश्चरणं सूर्यस्य।पाति नाभा सप्तशीर्षाणमग्निः पाति देवानामुपमादमृष्वः॥ ५ ॥
ऋभुश्चक्र ईड्यं चारु नाम विश्वानि देवो वयुनानि विद्वान्।ससस्य चर्म घृतवत्पदं वेस्तदिदग्नी रक्षत्यप्रयुच्छन्॥ ६ ॥
आ योनिमग्निर्घृतवन्तमस्थात्पृथुप्रगाणमुशन्तमुशानः।दीद्यानः शुचिर्ऋष्वः पावकः पुनःपुनर्मातरा नव्यसी कः॥ ७ ॥
सद्यो जात ओषधीभिर्ववक्षे यदी वर्धन्ति प्रस्वो घृतेन।आप इव प्रवता शुम्भमाना उरुष्यदग्निः पित्रोरुपस्थे॥ ८ ॥
उदु ष्टुतः समिधा यह्वो अद्यौद्वर्ष्मन्दिवो अधि नाभा पृथिव्याः।मित्रो अग्निरीड्यो मातरिश्वा दूतो वक्षद्यजथाय देवान्॥ ९ ॥
उदस्तम्भीत्समिधा नाकमृष्वोऽग्निर्भवन्नुत्तमो रोचनानाम्।यदी भृगुभ्यः परि मातरिश्वा गुहा सन्तं हव्यवाहं समीधे॥ १० ॥
इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध।स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे॥ ११ ॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.