ऋग्वेदसंहिता · Mandala 3
सूक्तम् ३.४८
Ask AIऋषिः — गाथिनो विश्वामित्रः · दे. इन्द्रः । त्रिष्टुप् ।
सद्यो ह जातो वृषभः कनीनः प्रभर्तुमावदन्धसः सुतस्य ।साधोः पिब प्रतिकामं यथा ते रसाशिरः प्रथमं सोम्यस्य ॥१॥
यज्जायथास्तदहरस्य कामेऽंशोः पीयूषमपिबो गिरिष्ठाम् ।तं ते माता परि योषा जनित्री महः पितुर्दम आसिञ्चदग्रे ॥२॥
उपस्थाय मातरमन्नमैट्ट तिग्ममपश्यदभि सोममूधः ।प्रयावयन्नचरद्गृत्सो अन्यान्महानि चक्रे पुरुधप्रतीकः ॥३॥
उग्रस्तुराषाळभिभूत्योजा यथावशं तन्वं चक्र एषः ।त्वष्टारमिन्द्रो जनुषाभिभूयामुष्या सोममपिबच्चमूषु ॥४॥
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥५॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.