ऋग्वेदसंहिता · Mandala 3
सूक्तम् ३.२७
Ask AIऋषिः — गाथिनो विश्वामित्रः · दे. अग्निः, १ ऋतवो वा। गायत्री
प्र वो वाजा अभिद्यवो हविष्मन्तो घृताच्या ।देवाञ्जिगाति सुम्नयुः ॥१॥
ईळे अग्निं विपश्चितं गिरा यज्ञस्य साधनम् ।श्रुष्टीवानं धितावानम् ॥२॥
अग्ने शकेम ते वयं यमं देवस्य वाजिनः ।अति द्वेषांसि तरेम ॥३॥
समिध्यमानो अध्वरेऽग्निः पावक ईड्यः ।शोचिष्केशस्तमीमहे ॥४॥
पृथुपाजा अमर्त्यो घृतनिर्णिक्स्वाहुतः ।अग्निर्यज्ञस्य हव्यवाट् ॥५॥
तं सबाधो यतस्रुच इत्था धिया यज्ञवन्तः ।आ चक्रुरग्निमूतये ॥६॥
होता देवो अमर्त्यः पुरस्तादेति मायया ।विदथानि प्रचोदयन् ॥७॥
वाजी वाजेषु धीयतेऽध्वरेषु प्र णीयते ।विप्रो यज्ञस्य साधनः ॥८॥
धिया चक्रे वरेण्यो भूतानां गर्भमा दधे ।दक्षस्य पितरं तना ॥९॥
नि त्वा दधे वरेण्यं दक्षस्येळा सहस्कृत ।अग्ने सुदीतिमुशिजम् ॥१०॥
अग्निं यन्तुरमप्तुरमृतस्य योगे वनुषः ।विप्रा वाजैः समिन्धते ॥११॥
ऊर्जो नपातमध्वरे दीदिवांसमुप द्यवि ।अग्निमीळे कविक्रतुम् ॥१२॥
ईळेन्यो नमस्यस्तिरस्तमांसि दर्शतः ।समग्निरिध्यते वृषा ॥१३॥
वृषो अग्निः समिध्यतेऽश्वो न देववाहनः ।तं हविष्मन्त ईळते ॥१४॥
वृषणं त्वा वयं वृषन्वृषणः समिधीमहि ।अग्ने दीद्यतं बृहत् ॥१५॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.