ऋग्वेदसंहिता · Mandala 10
सूक्तम् १०.९७
Ask AIऋषिः — आथर्वणो भिषग् · दे. ओषधयः। अनुष्टुप्
या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा ।मनै नु बभ्रूणामहं शतं धामानि सप्त च ॥१॥
शतं वो अम्ब धामानि सहस्रमुत वो रुहः ।अधा शतक्रत्वो यूयमिमं मे अगदं कृत ॥२॥
ओषधीः प्रति मोदध्वं पुष्पवतीः प्रसूवरीः ।अश्वा इव सजित्वरीर्वीरुधः पारयिष्ण्वः ॥३॥
ओषधीरिति मातरस्तद्वो देवीरुप ब्रुवे ।सनेयमश्वं गां वास आत्मानं तव पूरुष ॥४॥
अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता ।गोभाज इत्किलासथ यत्सनवथ पूरुषम् ॥५॥
यत्रौषधीः समग्मत राजानः समिताविव ।विप्रः स उच्यते भिषग्रक्षोहामीवचातनः ॥६॥
अश्वावतीं सोमावतीमूर्जयन्तीमुदोजसम् ।आवित्सि सर्वा ओषधीरस्मा अरिष्टतातये ॥७॥
उच्छुष्मा ओषधीनां गावो गोष्ठादिवेरते ।धनं सनिष्यन्तीनामात्मानं तव पूरुष ॥८॥
इष्कृतिर्नाम वो माताथो यूयं स्थ निष्कृतीः ।सीराः पतत्रिणी स्थन यदामयति निष्कृथ ॥९॥
अति विश्वाः परिष्ठा स्तेन इव व्रजमक्रमुः ।ओषधीः प्राचुच्यवुर्यत्किं च तन्वो रपः ॥१०॥
यदिमा वाजयन्नहमोषधीर्हस्त आदधे ।आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥११॥
यस्यौषधीः प्रसर्पथाङ्गमङ्गं परुष्परुः ।ततो यक्ष्मं वि बाधध्व उग्रो मध्यमशीरिव ॥१२॥
साकं यक्ष्म प्र पत चाषेण किकिदीविना ।साकं वातस्य ध्राज्या साकं नश्य निहाकया ॥१३॥
अन्या वो अन्यामवत्वन्यान्यस्या उपावत ।ताः सर्वाः संविदाना इदं मे प्रावता वचः ॥१४॥
याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः ।बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः ॥१५॥
मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत ।अथो यमस्य पड्बीशात्सर्वस्माद्देवकिल्बिषात् ॥१६॥
अवपतन्तीरवदन्दिव ओषधयस्परि ।यं जीवमश्नवामहै न स रिष्याति पूरुषः ॥१७॥
या ओषधीः सोमराज्ञीर्बह्वीः शतविचक्षणाः ।तासां त्वमस्युत्तमारं कामाय शं हृदे ॥१८॥
या ओषधीः सोमराज्ञीर्विष्ठिताः पृथिवीमनु ।बृहस्पतिप्रसूता अस्यै सं दत्त वीर्यम् ॥१९॥
मा वो रिषत्खनिता यस्मै चाहं खनामि वः ।द्विपच्चतुष्पदस्माकं सर्वमस्त्वनातुरम् ॥२०॥
याश्चेदमुपशृण्वन्ति याश्च दूरं परागताः ।सर्वाः संगत्य वीरुधोऽस्यै सं दत्त वीर्यम् ॥२१॥
ओषधयः सं वदन्ते सोमेन सह राज्ञा ।यस्मै कृणोति ब्राह्मणस्तं राजन्पारयामसि ॥२२॥ (तु. ब्रह्मपुराणम् २.५०.१४)त्वमुत्तमास्योषधे तव वृक्षा उपस्तयः ।उपस्तिरस्तु सोऽस्माकं यो अस्माँ अभिदासति ॥२३॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.