ऋग्वेदसंहिता · Mandala 10
सूक्तम् १०.९३
Ask AIऋषिः — तान्वः पार्थ्यः · दे. विश्वे देवाः। प्रस्तारपङ्क्तिः, २,३, १३ अनुष्टुप्, ९ अक्षरैः पङ्क्तिः, ११ न्यङ्कुसारिणी, १५ पुरस्ताद्बृहती।
महि द्यावापृथिवी भूतमुर्वी नारी यह्वी न रोदसी सदं नः ।तेभिर्नः पातं सह्यस एभिर्नः पातं शूषणि ॥१॥
यज्ञेयज्ञे स मर्त्यो देवान्सपर्यति ।यः सुम्नैर्दीर्घश्रुत्तम आविवासत्येनान् ॥२॥
विश्वेषामिरज्यवो देवानां वार्महः ।विश्वे हि विश्वमहसो विश्वे यज्ञेषु यज्ञियाः ॥३॥
ते घा राजानो अमृतस्य मन्द्रा अर्यमा मित्रो वरुणः परिज्मा ।कद्रुद्रो नृणां स्तुतो मरुतः पूषणो भगः ॥४॥
उत नो नक्तमपां वृषण्वसू सूर्यामासा सदनाय सधन्या ।सचा यत्साद्येषामहिर्बुध्नेषु बुध्न्यः ॥५॥
उत नो देवावश्विना शुभस्पती धामभिर्मित्रावरुणा उरुष्यताम् ।महः स राय एषतेऽति धन्वेव दुरिता ॥६॥
उत नो रुद्रा चिन्मृळतामश्विना विश्वे देवासो रथस्पतिर्भगः ।ऋभुर्वाज ऋभुक्षणः परिज्मा विश्ववेदसः ॥७॥
ऋभुरृभुक्षा ऋभुर्विधतो मद आ ते हरी जूजुवानस्य वाजिना ।दुष्टरं यस्य साम चिदृधग्यज्ञो न मानुषः ॥८॥
कृधी नो अह्रयो देव सवितः स च स्तुषे मघोनाम् ।सहो न इन्द्रो वह्निभिर्न्येषां चर्षणीनां चक्रं रश्मिं न योयुवे ॥९॥
ऐषु द्यावापृथिवी धातं महदस्मे वीरेषु विश्वचर्षणि श्रवः ।पृक्षं वाजस्य सातये पृक्षं रायोत तुर्वणे ॥१०॥
एतं शंसमिन्द्रास्मयुष्ट्वं कूचित्सन्तं सहसावन्नभिष्टये ।सदा पाह्यभिष्टये मेदतां वेदता वसो ॥११॥
एतं मे स्तोमं तना न सूर्ये द्युतद्यामानं वावृधन्त नृणाम् ।संवननं नाश्व्यं तष्टेवानपच्युतम् ॥१२॥
वावर्त येषां राया युक्तैषां हिरण्ययी ।नेमधिता न पौंस्या वृथेव विष्टान्ता ॥१३॥
प्र तद्दुःशीमे पृथवाने वेने प्र रामे वोचमसुरे मघवत्सु ।ये युक्त्वाय पञ्च शतास्मयु पथा विश्राव्येषाम् ॥१४॥
अधीन्न्वत्र सप्ततिं च सप्त च ।सद्यो दिदिष्ट तान्वः सद्यो दिदिष्ट पार्थ्यः सद्यो दिदिष्ट मायवः ॥१५॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.