ऋग्वेदसंहिता · Mandala 10
सूक्तम् १०.७२
Ask AIऋषिः — लौक्यो बृहस्पतिः, बृहस्पतिराङ्गिरसो वा, दाक्षायणी अदितिर्वा · दे. देवाः। अनुष्टुप्
देवानां नु वयं जाना प्र वोचाम विपन्यया ।उक्थेषु शस्यमानेषु यः पश्यादुत्तरे युगे ॥१॥
ब्रह्मणस्पतिरेता सं कर्मार इवाधमत् ।देवानां पूर्व्ये युगेऽसतः सदजायत ॥२॥
देवानां युगे प्रथमेऽसतः सदजायत ।तदाशा अन्वजायन्त तदुत्तानपदस्परि ॥३॥
भूर्जज्ञ उत्तानपदो भुव आशा अजायन्त ।अदितेर्दक्षो अजायत दक्षाद्वदितिः परि ॥४॥
अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव ।तां देवा अन्वजायन्त भद्रा अमृतबन्धवः ॥५॥
यद्देवा अदः सलिले सुसंरब्धा अतिष्ठत ।अत्रा वो नृत्यतामिव तीव्रो रेणुरपायत ॥६॥
यद्देवा यतयो यथा भुवनान्यपिन्वत ।अत्रा समुद्र आ गूळ्हमा सूर्यमजभर्तन ॥७॥
अष्टौ पुत्रासो अदितेर्ये जातास्तन्वस्परि ।देवाँ उप प्रैत्सप्तभिः परा मार्ताण्डमास्यत् ॥८॥
सप्तभिः पुत्रैरदितिरुप प्रैत्पूर्व्यं युगम् ।प्रजायै मृत्यवे त्वत्पुनर्मार्ताण्डमाभरत् ॥९॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.