ऋग्वेदसंहिता · Mandala 10
सूक्तम् १०.६२
Ask AIऋषिः — नाभानेदिष्ठो मानवः · दे. विश्वे देवाः, १-६ अङ्गिरसो वा, ८-११ सावर्णेर्दानम्। जगती, ५,८,९ अनुष्टुप्, प्रगाथ- - ६ बृहती, 7 सतोबृहती, १० गायत्री, ११ त्रिष्टुप्
ये यज्ञेन दक्षिणया समक्ता इन्द्रस्य सख्यममृतत्वमानश ।तेभ्यो भद्रमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥१॥
य उदाजन्पितरो गोमयं वस्वृतेनाभिन्दन्परिवत्सरे वलम् ।दीर्घायुत्वमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥२॥
य ऋतेन सूर्यमारोहयन्दिव्यप्रथयन्पृथिवीं मातरं वि ।सुप्रजास्त्वमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥३॥
अयं नाभा वदति वल्गु वो गृहे देवपुत्रा ऋषयस्तच्छृणोतन ।सुब्रह्मण्यमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥४॥
विरूपास इदृषयस्त इद्गम्भीरवेपसः ।ते अङ्गिरसः सूनवस्ते अग्नेः परि जज्ञिरे ॥५॥
ये अग्नेः परि जज्ञिरे विरूपासो दिवस्परि ।नवग्वो नु दशग्वो अङ्गिरस्तमो सचा देवेषु मंहते ॥६॥
इन्द्रेण युजा निः सृजन्त वाघतो व्रजं गोमन्तमश्विनम् ।सहस्रं मे ददतो अष्टकर्ण्यः श्रवो देवेष्वक्रत ॥७॥
प्र नूनं जायतामयं मनुस्तोक्मेव रोहतु ।यः सहस्रं शताश्वं सद्यो दानाय मंहते ॥८॥
न तमश्नोति कश्चन दिव इव सान्वारभम् ।सावर्ण्यस्य दक्षिणा वि सिन्धुरिव पप्रथे ॥९॥
उत दासा परिविषे स्मद्दिष्टी गोपरीणसा ।यदुस्तुर्वश्च मामहे ॥१०॥
सहस्रदा ग्रामणीर्मा रिषन्मनुः सूर्येणास्य यतमानैतु दक्षिणा ।सावर्णेर्देवाः प्र तिरन्त्वायुर्यस्मिन्नश्रान्ता असनाम वाजम् ॥११॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.