ऋग्वेदसंहिता · Mandala 10
सूक्तम् १०.३३
Ask AIऋषिः — कवष ऐलूषः · दे. १ विश्वे देवाः, २, ३ इन्द्रः, ४-५ कुरुश्रवणत्रासदस्यवः, ६-९ उपमश्रवा मैत्रातिथिः। १ त्रिष्टुप्, प्रगाथः (२ बृहती, ३ सतोबृहती), ४-९ गायत्री।
प्र मा युयुज्रे प्रयुजो जनानां वहामि स्म पूषणमन्तरेण ।विश्वे देवासो अध मामरक्षन्दुःशासुरागादिति घोष आसीत् ॥१॥
सं मा तपन्त्यभितः सपत्नीरिव पर्शवः ।नि बाधते अमतिर्नग्नता जसुर्वेर्न वेवीयते मतिः ॥२॥
मूषो न शिश्ना व्यदन्ति माध्य स्तोतारं ते शतक्रतो ।सकृत्सु नो मघवन्निन्द्र मृळयाधा पितेव नो भव ॥३॥
कुरुश्रवणमावृणि राजानं त्रासदस्यवम् ।मंहिष्ठं वाघतामृषिः ॥४॥
यस्य मा हरितो रथे तिस्रो वहन्ति साधुया ।स्तवै सहस्रदक्षिणे ॥५॥
यस्य प्रस्वादसो गिर उपमश्रवसः पितुः ।क्षेत्रं न रण्वमूचुषे ॥६॥
अधि पुत्रोपमश्रवो नपान्मित्रातिथेरिहि ।पितुष्टे अस्मि वन्दिता ॥७॥
यदीशीयामृतानामुत वा मर्त्यानाम् ।जीवेदिन्मघवा मम ॥८॥
न देवानामति व्रतं शतात्मा चन जीवति ।तथा युजा वि वावृते ॥९॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.