ऋग्वेदसंहिता · Mandala 10
सूक्तम् १०.२५
Ask AIऋषिः — ऐन्द्रो विमदः, प्राजापत्यो वा, वासुक्रो वसुकृद्वा · दे. सोमः। आस्तारपङ्क्तिः
भद्रं नो अपि वातय मनो दक्षमुत क्रतुम् ।अधा ते सख्ये अन्धसो वि वो मदे रणन्गावो न यवसे विवक्षसे ॥१॥
हृदिस्पृशस्त आसते विश्वेषु सोम धामसु ।अधा कामा इमे मम वि वो मदे वि तिष्ठन्ते वसूयवो विवक्षसे ॥२॥
उत व्रतानि सोम ते प्राहं मिनामि पाक्या ।अधा पितेव सूनवे वि वो मदे मृळा नो अभि चिद्वधाद्विवक्षसे ॥३॥
समु प्र यन्ति धीतयः सर्गासोऽवताँ इव ।क्रतुं नः सोम जीवसे वि वो मदे धारया चमसाँ इव विवक्षसे ॥४॥
तव त्ये सोम शक्तिभिर्निकामासो व्यृण्विरे ।गृत्सस्य धीरास्तवसो वि वो मदे व्रजं गोमन्तमश्विनं विवक्षसे ॥५॥
पशुं नः सोम रक्षसि पुरुत्रा विष्ठितं जगत् ।समाकृणोषि जीवसे वि वो मदे विश्वा सम्पश्यन्भुवना विवक्षसे ॥६॥
त्वं नः सोम विश्वतो गोपा अदाभ्यो भव ।सेध राजन्नप स्रिधो वि वो मदे मा नो दुःशंस ईशता विवक्षसे ॥७॥
त्वं नः सोम सुक्रतुर्वयोधेयाय जागृहि ।क्षेत्रवित्तरो मनुषो वि वो मदे द्रुहो नः पाह्यंहसो विवक्षसे ॥८॥
त्वं नो वृत्रहन्तमेन्द्रस्येन्दो शिवः सखा ।यत्सीं हवन्ते समिथे वि वो मदे युध्यमानास्तोकसातौ विवक्षसे ॥९॥
अयं घ स तुरो मद इन्द्रस्य वर्धत प्रियः ।अयं कक्षीवतो महो वि वो मदे मतिं विप्रस्य वर्धयद्विवक्षसे ॥१०॥
अयं विप्राय दाशुषे वाजाँ इयर्ति गोमतः ।अयं सप्तभ्य आ वरं वि वो मदे प्रान्धं श्रोणं च तारिषद्विवक्षसे ॥११॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.