ऋग्वेदसंहिता · Mandala 10
सूक्तम् १०.१४६
Ask AIऋषिः — ऐरम्मदो देवमुनिः · दे. अरण्यानी । अनुष्टुप्
अरण्यान्यरण्यान्यसौ या प्रेव नश्यसि ।कथा ग्रामं न पृच्छसि न त्वा भीरिव विन्दती३ँ ॥१॥
वृषारवाय वदते यदुपावति चिच्चिकः ।आघाटिभिरिव धावयन्नरण्यानिर्महीयते ॥२॥
उत गाव इवादन्त्युत वेश्मेव दृश्यते ।उतो अरण्यानिः सायं शकटीरिव सर्जति ॥३॥
गामङ्गैष आ ह्वयति दार्वङ्गैषो अपावधीत् ।वसन्नरण्यान्यां सायमक्रुक्षदिति मन्यते ॥४॥
न वा अरण्यानिर्हन्त्यन्यश्चेन्नाभिगच्छति ।स्वादोः फलस्य जग्ध्वाय यथाकामं नि पद्यते ॥५॥
आञ्जनगन्धिं सुरभिं बह्वन्नामकृषीवलाम् ।प्राहं मृगाणां मातरमरण्यानिमशंसिषम् ॥६॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.