ऋग्वेदसंहिता · Mandala 10
सूक्तम् १०.१४०
Ask AIऋषिः — अग्निः पावकः · ऋ. [https://www.angelfire.com/indie/vedastudy/pur_index17/pavaka.htm अग्निः पावकः,] दे. अग्निः । सतोबृहती, १-२ विष्टारपंक्तिः, ६ उपरिष्टाज्ज्योतिः
अग्ने तव श्रवो वयो महि भ्राजन्ते अर्चयो विभावसो ।बृहद्भानो शवसा वाजमुक्थ्यं दधासि दाशुषे कवे ॥१॥
पावकवर्चाः शुक्रवर्चा अनूनवर्चा उदियर्षि भानुना ।पुत्रो मातरा विचरन्नुपावसि पृणक्षि रोदसी उभे ॥२॥
ऊर्जो नपाज्जातवेदः सुशस्तिभिर्मन्दस्व धीतिभिर्हितः ।त्वे इषः सं दधुर्भूरिवर्पसश्चित्रोतयो वामजाताः ॥३॥
इरज्यन्नग्ने प्रथयस्व जन्तुभिरस्मे रायो अमर्त्य ।स दर्शतस्य वपुषो वि राजसि पृणक्षि सानसिं क्रतुम् ॥४॥
इष्कर्तारमध्वरस्य प्रचेतसं क्षयन्तं राधसो महः ।रातिं वामस्य सुभगां महीमिषं दधासि सानसिं रयिम् ॥५॥
ऋतावानं महिषं विश्वदर्शतमग्निं सुम्नाय दधिरे पुरो जनाः ।श्रुत्कर्णं सप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा ॥६॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.