ऋग्वेदसंहिता · Mandala 10
सूक्तम् १०.१३३
Ask AIऋषिः — सुदाः पैजवनः · दे. इन्द्रः । शक्वरी, ४-६ महापङ्क्तिः, ७ त्रिष्टुप्।
प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत ।अभीके चिदु लोककृत्संगे समत्सु वृत्रहास्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥१॥
त्वं सिन्धूँरवासृजोऽधराचो अहन्नहिम् ।अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यं तं त्वा परि ष्वजामहे नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥२॥
वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः ।अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर्ददिर्वसु नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥३॥
यो न इन्द्राभितो जनो वृकायुरादिदेशति ।अधस्पदं तमीं कृधि विबाधो असि सासहिर्नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥४॥
यो न इन्द्राभिदासति सनाभिर्यश्च निष्ट्यः ।अव तस्य बलं तिर महीव द्यौरध त्मना नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥५॥
वयमिन्द्र त्वायवः सखित्वमा रभामहे ।ऋतस्य नः पथा नयाति विश्वानि दुरिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥६॥
अस्मभ्यं सु त्वमिन्द्र तां शिक्ष या दोहते प्रति वरं जरित्रे ।अच्छिद्रोध्नी पीपयद्यथा नः सहस्रधारा पयसा मही गौः ॥७॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.