ऋग्वेदसंहिता · Mandala 10
सूक्तम् १०.११७
Ask AIऋषिः — भिक्षुराङ्गिरसः · दे. धनान्नदानं। त्रिष्टुप्, १-९ जगती।
न वा उ देवाः क्षुधमिद्वधं ददुरुताशितमुप गच्छन्ति मृत्यवः ।उतो रयिः पृणतो नोप दस्यत्युतापृणन्मर्डितारं न विन्दते ॥१॥
य आध्राय चकमानाय पित्वोऽन्नवान्सन्रफितायोपजग्मुषे ।स्थिरं मनः कृणुते सेवते पुरोतो चित्स मर्डितारं न विन्दते ॥२॥
स इद्भोजो यो गृहवे ददात्यन्नकामाय चरते कृशाय ।अरमस्मै भवति यामहूता उतापरीषु कृणुते सखायम् ॥३॥
न स सखा यो न ददाति सख्ये सचाभुवे सचमानाय पित्वः ।अपास्मात्प्रेयान्न तदोको अस्ति पृणन्तमन्यमरणं चिदिच्छेत् ॥४॥
पृणीयादिन्नाधमानाय तव्यान्द्राघीयांसमनु पश्येत पन्थाम् ।ओ हि वर्तन्ते रथ्येव चक्रान्यमन्यमुप तिष्ठन्त रायः ॥५॥
मोघमन्नं विन्दते अप्रचेताः सत्यं ब्रवीमि वध इत्स तस्य ।नार्यमणं पुष्यति नो सखायं केवलाघो भवति केवलादी ॥६॥
कृषन्नित्फाल आशितं कृणोति यन्नध्वानमप वृङ्क्ते चरित्रैः ।वदन्ब्रह्मावदतो वनीयान्पृणन्नापिरपृणन्तमभि ष्यात् ॥७॥
एकपाद्भूयो द्विपदो वि चक्रमे द्विपात्त्रिपादमभ्येति पश्चात् ।चतुष्पादेति द्विपदामभिस्वरे सम्पश्यन्पङ्क्तीरुपतिष्ठमानः ॥८॥
समौ चिद्धस्तौ न समं विविष्टः सम्मातरा चिन्न समं दुहाते ।यमयोश्चिन्न समा वीर्याणि ज्ञाती चित्सन्तौ न समं पृणीतः ॥९॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.