ऋग्वेदसंहिता · Mandala 1
सूक्तम् १.८४
Ask AIऋषिः — गोतमो राहूगणः · दे. इन्द्रः। १-६ अनुष्टुप्, ७-९ उष्णिक्, १०-१२ पंक्तिः, १३-१५ गायत्री, १६-१८ त्रिष्टुप्, (प्रगाथः =) १९ बृहती, २० सतोबृहती।
असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि ।आ त्वा पृणक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः ॥१॥
इन्द्रमिद्धरी वहतोऽप्रतिधृष्टशवसम् ।ऋषीणां च स्तुतीरुप यज्ञं च मानुषाणाम् ॥२॥
आ तिष्ठ वृत्रहन्रथं युक्ता ते ब्रह्मणा हरी ।अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना ॥३॥
इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम् ।शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने ॥४॥
इन्द्राय नूनमर्चतोक्थानि च ब्रवीतन ।सुता अमत्सुरिन्दवो ज्येष्ठं नमस्यता सहः ॥५॥
नकिष्ट्वद्रथीतरो हरी यदिन्द्र यच्छसे ।नकिष्ट्वानु मज्मना नकिः स्वश्व आनशे ॥६॥
य एक इद्विदयते वसु मर्ताय दाशुषे ।ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥७॥
कदा मर्तमराधसं पदा क्षुम्पमिव स्फुरत् ।कदा नः शुश्रवद्गिर इन्द्रो अङ्ग ॥८॥
यश्चिद्धि त्वा बहुभ्य आ सुतावाँ आविवासति ।उग्रं तत्पत्यते शव इन्द्रो अङ्ग ॥९॥
स्वादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः ।या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यम् ॥१०॥
ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः ।प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यम् ॥११॥
ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः ।व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यम् ॥१२॥
इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः ।जघान नवतीर्नव ॥१३॥
इच्छन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम् ।तद्विदच्छर्यणावति ॥१४॥
अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् ।इत्था चन्द्रमसो गृहे ॥१५॥
को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् ।आसन्निषून्हृत्स्वसो मयोभून्य एषां भृत्यामृणधत्स जीवात् ॥१६॥
क ईषते तुज्यते को बिभाय को मंसते सन्तमिन्द्रं को अन्ति ।कस्तोकाय क इभायोत रायेऽधि ब्रवत्तन्वे को जनाय ॥१७॥
को अग्निमीट्टे हविषा घृतेन स्रुचा यजाता ऋतुभिर्ध्रुवेभिः ।कस्मै देवा आ वहानाशु होम को मंसते वीतिहोत्रः सुदेवः ॥१८॥
त्वमङ्ग प्र शंसिषो देवः शविष्ठ मर्त्यम् ।न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥१९॥
मा ते राधांसि मा त ऊतयो वसोऽस्मान्कदा चना दभन् ।विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ॥२०॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.