ऋग्वेदसंहिता · Mandala 1
सूक्तम् १.७४
Ask AIऋषिः — गोतमो राहूगणः · दे. अग्निः। गायत्री
उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये ।आरे अस्मे च शृण्वते ॥१॥
यः स्नीहितीषु पूर्व्यः संजग्मानासु कृष्टिषु ।अरक्षद्दाशुषे गयम् ॥२॥
उत ब्रुवन्तु जन्तव उदग्निर्वृत्रहाजनि ।धनंजयो रणेरणे ॥३॥
यस्य दूतो असि क्षये वेषि हव्यानि वीतये ।दस्मत्कृणोष्यध्वरम् ॥४॥
तमित्सुहव्यमङ्गिरः सुदेवं सहसो यहो ।जना आहुः सुबर्हिषम् ॥५॥
आ च वहासि ताँ इह देवाँ उप प्रशस्तये ।हव्या सुश्चन्द्र वीतये ॥६॥
न योरुपब्दिरश्व्यः शृण्वे रथस्य कच्चन ।यदग्ने यासि दूत्यम् ॥७॥
त्वोतो वाज्यह्रयोऽभि पूर्वस्मादपरः ।प्र दाश्वाँ अग्ने अस्थात् ॥८॥
उत द्युमत्सुवीर्यं बृहदग्ने विवाससि ।देवेभ्यो देव दाशुषे ॥९॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.