ऋग्वेदसंहिता · Mandala 1
सूक्तम् १.४७
Ask AIऋषिः — प्रस्कण्वः काण्वः · दे. अश्विनौ । प्रगाथः -- विषमा बृहत्यः, समाः सतोबृहत्यः
अयं वां मधुमत्तमः सुतः सोम ऋतावृधा ।तमश्विना पिबतं तिरोअह्न्यं धत्तं रत्नानि दाशुषे ॥१॥
त्रिवन्धुरेण त्रिवृता सुपेशसा रथेना यातमश्विना ।कण्वासो वां ब्रह्म कृण्वन्त्यध्वरे तेषां सु शृणुतं हवम् ॥२॥
अश्विना मधुमत्तमं पातं सोममृतावृधा ।अथाद्य दस्रा वसु बिभ्रता रथे दाश्वांसमुप गच्छतम् ॥३॥
त्रिषधस्थे बर्हिषि विश्ववेदसा मध्वा यज्ञं मिमिक्षतम् ।कण्वासो वां सुतसोमा अभिद्यवो युवां हवन्ते अश्विना ॥४॥
याभिः कण्वमभिष्टिभिः प्रावतं युवमश्विना ।ताभिः ष्वस्माँ अवतं शुभस्पती पातं सोममृतावृधा ॥५॥
सुदासे दस्रा वसु बिभ्रता रथे पृक्षो वहतमश्विना ।रयिं समुद्रादुत वा दिवस्पर्यस्मे धत्तं पुरुस्पृहम् ॥६॥
यन्नासत्या परावति यद्वा स्थो अधि तुर्वशे ।अतो रथेन सुवृता न आ गतं साकं सूर्यस्य रश्मिभिः ॥७॥
अर्वाञ्चा वां सप्तयोऽध्वरश्रियो वहन्तु सवनेदुप ।इषं पृञ्चन्ता सुकृते सुदानव आ बर्हिः सीदतं नरा ॥८॥
तेन नासत्या गतं रथेन सूर्यत्वचा ।येन शश्वदूहथुर्दाशुषे वसु मध्वः सोमस्य पीतये ॥९॥
उक्थेभिरर्वागवसे पुरूवसू अर्कैश्च नि ह्वयामहे ।शश्वत्कण्वानां सदसि प्रिये हि कं सोमं पपथुरश्विना ॥१०॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.