ऋग्वेदसंहिता · Mandala 1
सूक्तम् १.४०
Ask AIऋषिः — कण्वो घौरः · दे. ब्रह्मणस्पतिः। प्रगाथः -- विषमा बृहत्यः, समाः सतोबृहत्यः
उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वेमहे ।उप प्र यन्तु मरुतः सुदानव इन्द्र प्राशूर्भवा सचा ॥१॥
त्वामिद्धि सहसस्पुत्र मर्त्य उपब्रूते धने हिते ।सुवीर्यं मरुत आ स्वश्व्यं दधीत यो व आचके ॥२॥
प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता ।अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः ॥३॥
यो वाघते ददाति सूनरं वसु स धत्ते अक्षिति श्रवः ।तस्मा इळां सुवीरामा यजामहे सुप्रतूर्तिमनेहसम् ॥४॥
प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम् ।यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे ॥५॥
तमिद्वोचेमा विदथेषु शम्भुवं मन्त्रं देवा अनेहसम् ।इमां च वाचं प्रतिहर्यथा नरो विश्वेद्वामा वो अश्नवत् ॥६॥
को देवयन्तमश्नवज्जनं को वृक्तबर्हिषम् ।प्रप्र दाश्वान्पस्त्याभिरस्थितान्तर्वावत्क्षयं दधे ॥७॥
उप क्षत्रं पृञ्चीत हन्ति राजभिर्भये चित्सुक्षितिं दधे ।नास्य वर्ता न तरुता महाधने नार्भे अस्ति वज्रिणः ॥८॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.