ऋग्वेदसंहिता · Mandala 1
सूक्तम् १.१८८
Ask AIऋषिः — अगस्त्यो मैत्रावरुणिः · दे. आप्रीसूक्तं (१ इध्मः समिद्धोऽग्निर्वा, २ तनूनपात्, ३ इळः, ४ बर्हिः, ५ देवीर्द्वारः, ६ उषासानक्ता, ७ दैव्यौ होतारौ प्रचेतसौ, ८ तिस्रो देव्यः सरस्वतीळाभारत्यः, ९ त्वष्टा, १० वनस्पतिः, ११ स्वाहाकृतयः ।गायत्री ।
समिद्धो अद्य राजसि देवो देवैः सहस्रजित् ।दूतो हव्या कविर्वह ॥१॥
तनूनपादृतं यते मध्वा यज्ञः समज्यते ।दधत्सहस्रिणीरिषः ॥२॥
आजुह्वानो न ईड्यो देवाँ आ वक्षि यज्ञियान् ।अग्ने सहस्रसा असि ॥३॥
प्राचीनं बर्हिरोजसा सहस्रवीरमस्तृणन् ।यत्रादित्या विराजथ ॥४॥
विराट् सम्राड्विभ्वीः प्रभ्वीर्बह्वीश्च भूयसीश्च याः ।दुरो घृतान्यक्षरन् ॥५॥
सुरुक्मे हि सुपेशसाधि श्रिया विराजतः ।उषासावेह सीदताम् ॥६॥
प्रथमा हि सुवाचसा होतारा दैव्या कवी ।यज्ञं नो यक्षतामिमम् ॥७॥
भारतीळे सरस्वति या वः सर्वा उपब्रुवे ।ता नश्चोदयत श्रिये ॥८॥
त्वष्टा रूपाणि हि प्रभुः पशून्विश्वान्समानजे ।तेषां न स्फातिमा यज ॥९॥
उप त्मन्या वनस्पते पाथो देवेभ्यः सृज ।अग्निर्हव्यानि सिष्वदत् ॥१०॥
पुरोगा अग्निर्देवानां गायत्रेण समज्यते ।स्वाहाकृतीषु रोचते ॥११॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.