ऋग्वेदसंहिता · Mandala 1
सूक्तम् १.१८
Ask AIऋषिः — मेधातिथिः काण्वः · दे. ब्रह्मणस्पतिः, ४ इन्द्रो ब्रह्मणस्पतिः सोमश्च, ५ ब्रह्मणस्पतिः सोम इन्द्रो दक्षिणा च, ६-८ सदसस्पतिः, ९ सदसस्पतिर्नराशंसो वा। गायत्री
सोमानं स्वरणं कृणुहि ब्रह्मणस्पते ।कक्षीवन्तं य औशिजः ॥१॥
यो रेवान्यो अमीवहा वसुवित्पुष्टिवर्धनः ।स नः सिषक्तु यस्तुरः ॥२॥
मा नः शंसो अररुषो धूर्तिः प्रणङ्मर्त्यस्य ।रक्षा णो ब्रह्मणस्पते ॥३॥
स घा वीरो न रिष्यति यमिन्द्रो ब्रह्मणस्पतिः ।सोमो हिनोति मर्त्यम् ॥४॥
त्वं तं ब्रह्मणस्पते सोम इन्द्रश्च मर्त्यम् ।दक्षिणा पात्वंहसः ॥५॥
सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् ।सनिं मेधामयासिषम् ॥६॥
यस्मादृते न सिध्यति यज्ञो विपश्चितश्चन ।स धीनां योगमिन्वति ॥७॥
आदृध्नोति हविष्कृतिं प्राञ्चं कृणोत्यध्वरम् ।होत्रा देवेषु गच्छति ॥८॥
नराशंसं सुधृष्टममपश्यं सप्रथस्तमम् ।दिवो न सद्ममखसम् ॥९॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.