ऋग्वेदसंहिता · Mandala 1
सूक्तम् १.१४
Ask AIऋषिः — मेधातिथिः काण्वः · दे. विश्वे देवाः (विश्वैर्देवैः सहितोऽग्निः), ३ इन्द्रवायुबृहस्पतिमित्रग्निपूषभगादित्यमरुद्गणाः, १० विश्वदेवाग्नीन्द्रवायुमित्रधामानि, ११ अग्निः। गायत्री
ऐभिरग्ने दुवो गिरो विश्वेभिः सोमपीतये ।देवेभिर्याहि यक्षि च ॥१॥
आ त्वा कण्वा अहूषत गृणन्ति विप्र ते धियः ।देवेभिरग्न आ गहि ॥२॥
इन्द्रवायू बृहस्पतिं मित्राग्निं पूषणं भगम् ।आदित्यान्मारुतं गणम् ॥३॥
प्र वो भ्रियन्त इन्दवो मत्सरा मादयिष्णवः ।द्रप्सा मध्वश्चमूषदः ॥४॥
ईळते त्वामवस्यवः कण्वासो वृक्तबर्हिषः ।हविष्मन्तो अरंकृतः ॥५॥
घृतपृष्ठा मनोयुजो ये त्वा वहन्ति वह्नयः ।आ देवान्सोमपीतये ॥६॥
तान्यजत्राँ ऋतावृधोऽग्ने पत्नीवतस्कृधि ।मध्वः सुजिह्व पायय ॥७॥
ये यजत्रा य ईड्यास्ते ते पिबन्तु जिह्वया ।मधोरग्ने वषट्कृति ॥८॥
आकीं सूर्यस्य रोचनाद्विश्वान्देवाँ उषर्बुधः ।विप्रो होतेह वक्षति ॥९॥
विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना ।पिबा मित्रस्य धामभिः ॥१०॥
त्वं होता मनुर्हितोऽग्ने यज्ञेषु सीदसि ।सेमं नो अध्वरं यज ॥११॥
युक्ष्वा ह्यरुषी रथे हरितो देव रोहितः ।ताभिर्देवाँ इहा वह ॥१२॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.