ऋग्वेदसंहिता · Mandala 1
सूक्तम् १.१२६
Ask AIऋषिः — १-५ कक्षीवान् दैर्घतमस औशिजः, ६ स्वनयो भावयव्यः, ७ रोमशा · दे. १-५ स्वनयो भावयव्यः, ६ रोमशा, ७ स्वनयो भावयव्यः । त्रिष्टुप्, ६-७ अनुष्टुप्।
अमन्दान्स्तोमान्प्र भरे मनीषा सिन्धावधि क्षियतो भाव्यस्य ।यो मे सहस्रममिमीत सवानतूर्तो राजा श्रव इच्छमानः ॥१॥
शतं राज्ञो नाधमानस्य निष्काञ्छतमश्वान्प्रयतान्सद्य आदम् ।शतं कक्षीवाँ असुरस्य गोनां दिवि श्रवोऽजरमा ततान ॥२॥
उप मा श्यावाः स्वनयेन दत्ता वधूमन्तो दश रथासो अस्थुः ।षष्टिः सहस्रमनु गव्यमागात्सनत्कक्षीवाँ अभिपित्वे अह्नाम् ॥३॥
चत्वारिंशद्दशरथस्य शोणाः सहस्रस्याग्रे श्रेणिं नयन्ति ।मदच्युतः कृशनावतो अत्यान्कक्षीवन्त उदमृक्षन्त पज्राः ॥४॥
पूर्वामनु प्रयतिमा ददे वस्त्रीन्युक्ताँ अष्टावरिधायसो गाः ।सुबन्धवो ये विश्या इव व्रा अनस्वन्तः श्रव ऐषन्त पज्राः ॥५॥
आगधिता परिगधिता या कशीकेव जङ्गहे ।ददाति मह्यं यादुरी याशूनां भोज्या शता ॥६॥
उपोप मे परा मृश मा मे दभ्राणि मन्यथाः ।सर्वाहमस्मि रोमशा गन्धारीणामिवाविका ॥७॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.