ऋग्वेदसंहिता · Mandala 1
सूक्तम् १.१२०
Ask AIऋषिः — कक्षीवान् दैर्घतमस औशिजः · दे. अश्विनौ (१२ दुःस्वप्ननाशनम्)। १ गायत्री, २ ककुप्, ३ का-विराट्, ४ नष्टरूपी, ५ तनुशिरा, ६ उष्णिक्, ७ विष्टार-बृहती, ८ कृतिः, ९ विराट्, १०-१२ गायत्री।
का राधद्धोत्राश्विना वां को वां जोष उभयोः ।कथा विधात्यप्रचेताः ॥१॥
विद्वांसाविद्दुरः पृच्छेदविद्वानित्थापरो अचेताः ।नू चिन्नु मर्ते अक्रौ ॥२॥
ता विद्वांसा हवामहे वां ता नो विद्वांसा मन्म वोचेतमद्य ।प्रार्चद्दयमानो युवाकुः ॥३॥
वि पृच्छामि पाक्या न देवान्वषट्कृतस्याद्भुतस्य दस्रा ।पातं च सह्यसो युवं च रभ्यसो नः ॥४॥
प्र या घोषे भृगवाणे न शोभे यया वाचा यजति पज्रियो वाम् ।प्रैषयुर्न विद्वान् ॥५॥
श्रुतं गायत्रं तकवानस्याहं चिद्धि रिरेभाश्विना वाम् ।आक्षी शुभस्पती दन् ॥६॥
युवं ह्यास्तं महो रन्युवं वा यन्निरततंसतम् ।ता नो वसू सुगोपा स्यातं पातं नो वृकादघायोः ॥७॥
मा कस्मै धातमभ्यमित्रिणे नो माकुत्रा नो गृहेभ्यो धेनवो गुः ।स्तनाभुजो अशिश्वीः ॥८॥
दुहीयन्मित्रधितये युवाकु राये च नो मिमीतं वाजवत्यै ।इषे च नो मिमीतं धेनुमत्यै ॥९॥
अश्विनोरसनं रथमनश्वं वाजिनीवतोः ।तेनाहं भूरि चाकन ॥१०॥
अयं समह मा तनूह्याते जनाँ अनु ।सोमपेयं सुखो रथः ॥११॥
अध स्वप्नस्य निर्विदेऽभुञ्जतश्च रेवतः ।उभा ता बस्रि नश्यतः ॥१२॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.