ऋग्वेदसंहिता · Mandala 1
सूक्तम् १.११८
Ask AIऋषिः — कक्षीवान् दैर्घतमस औशिजः · दे. अश्विनौ। त्रिष्टुप्
आ वां रथो अश्विना श्येनपत्वा सुमृळीकः स्ववाँ यात्वर्वाङ् ।यो मर्त्यस्य मनसो जवीयान्त्रिवन्धुरो वृषणा वातरंहाः ॥१॥
त्रिवन्धुरेण त्रिवृता रथेन त्रिचक्रेण सुवृता यातमर्वाक् ।पिन्वतं गा जिन्वतमर्वतो नो वर्धयतमश्विना वीरमस्मे ॥२॥
प्रवद्यामना सुवृता रथेन दस्राविमं शृणुतं श्लोकमद्रेः ।किमङ्ग वां प्रत्यवर्तिं गमिष्ठाहुर्विप्रासो अश्विना पुराजाः ॥३॥
आ वां श्येनासो अश्विना वहन्तु रथे युक्तास आशवः पतंगाः ।ये अप्तुरो दिव्यासो न गृध्रा अभि प्रयो नासत्या वहन्ति ॥४॥
आ वां रथं युवतिस्तिष्ठदत्र जुष्ट्वी नरा दुहिता सूर्यस्य ।परि वामश्वा वपुषः पतंगा वयो वहन्त्वरुषा अभीके ॥५॥
उद्वन्दनमैरतं दंसनाभिरुद्रेभं दस्रा वृषणा शचीभिः ।निष्टौग्र्यं पारयथः समुद्रात्पुनश्च्यवानं चक्रथुर्युवानम् ॥६॥
युवमत्रयेऽवनीताय तप्तमूर्जमोमानमश्विनावधत्तम् ।युवं कण्वायापिरिप्ताय चक्षुः प्रत्यधत्तं सुष्टुतिं जुजुषाणा ॥७॥
युवं धेनुं शयवे नाधितायापिन्वतमश्विना पूर्व्याय ।अमुञ्चतं वर्तिकामंहसो निः प्रति जङ्घां विश्पलाया अधत्तम् ॥८॥
युवं श्वेतं पेदव इन्द्रजूतमहिहनमश्विनादत्तमश्वम् ।जोहूत्रमर्यो अभिभूतिमुग्रं सहस्रसां वृषणं वीड्वङ्गम् ॥९॥
ता वां नरा स्ववसे सुजाता हवामहे अश्विना नाधमानाः ।आ न उप वसुमता रथेन गिरो जुषाणा सुविताय यातम् ॥१०॥
आ श्येनस्य जवसा नूतनेनास्मे यातं नासत्या सजोषाः ।हवे हि वामश्विना रातहव्यः शश्वत्तमाया उषसो व्युष्टौ ॥११॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.