ऋग्वेदसंहिता · Mandala 1
सूक्तम् १.१०८
Ask AIऋषिः — कुत्स आङ्गिरसः · दे. इन्द्राग्नी। त्रिष्टुप्
य इन्द्राग्नी चित्रतमो रथो वामभि विश्वानि भुवनानि चष्टे ।तेना यातं सरथं तस्थिवांसाथा सोमस्य पिबतं सुतस्य ॥१॥
यावदिदं भुवनं विश्वमस्त्युरुव्यचा वरिमता गभीरम् ।तावाँ अयं पातवे सोमो अस्त्वरमिन्द्राग्नी मनसे युवभ्याम् ॥२॥
चक्राथे हि सध्र्यङ्नाम भद्रं सध्रीचीना वृत्रहणा उत स्थः ।ताविन्द्राग्नी सध्र्यञ्चा निषद्या वृष्णः सोमस्य वृषणा वृषेथाम् ॥३॥
समिद्धेष्वग्निष्वानजाना यतस्रुचा बर्हिरु तिस्तिराणा ।तीव्रैः सोमैः परिषिक्तेभिरर्वागेन्द्राग्नी सौमनसाय यातम् ॥४॥
यानीन्द्राग्नी चक्रथुर्वीर्याणि यानि रूपाण्युत वृष्ण्यानि ।या वां प्रत्नानि सख्या शिवानि तेभिः सोमस्य पिबतं सुतस्य ॥५॥
यदब्रवं प्रथमं वां वृणानोऽयं सोमो असुरैर्नो विहव्यः ।तां सत्यां श्रद्धामभ्या हि यातमथा सोमस्य पिबतं सुतस्य ॥६॥
यदिन्द्राग्नी मदथः स्वे दुरोणे यद्ब्रह्मणि राजनि वा यजत्रा ।अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥७॥
यदिन्द्राग्नी यदुषु तुर्वशेषु यद्द्रुह्युष्वनुषु पूरुषु स्थः ।अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥८॥
यदिन्द्राग्नी अवमस्यां पृथिव्यां मध्यमस्यां परमस्यामुत स्थः ।अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥९॥
यदिन्द्राग्नी परमस्यां पृथिव्यां मध्यमस्यामवमस्यामुत स्थः ।अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥१०॥
यदिन्द्राग्नी दिवि ष्ठो यत्पृथिव्यां यत्पर्वतेष्वोषधीष्वप्सु ।अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥११॥
यदिन्द्राग्नी उदिता सूर्यस्य मध्ये दिवः स्वधया मादयेथे ।अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥१२॥
एवेन्द्राग्नी पपिवांसा सुतस्य विश्वास्मभ्यं सं जयतं धनानि ।तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥१३॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.