ऋग्वेदसंहिता · Mandala 1
सूक्तम् १.१०५
Ask AIऋषिः — त्रित आप्त्यः, कुत्स आङ्गिरसो वा · दे. विश्वे देवाः। पङ्क्तिः, ८ यवमध्या महाबृहती, १९ त्रिष्टुप्।
चन्द्रमा अप्स्वन्तरा सुपर्णो धावते दिवि ।न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ॥१॥
अर्थमिद्वा उ अर्थिन आ जाया युवते पतिम् ।तुञ्जाते वृष्ण्यं पयः परिदाय रसं दुहे वित्तं मे अस्य रोदसी ॥२॥
मो षु देवा अदः स्वरव पादि दिवस्परि ।मा सोम्यस्य शम्भुवः शूने भूम कदा चन वित्तं मे अस्य रोदसी ॥३॥
यज्ञं पृच्छाम्यवमं स तद्दूतो वि वोचति ।क्व ऋतं पूर्व्यं गतं कस्तद्बिभर्ति नूतनो वित्तं मे अस्य रोदसी ॥४॥
अमी ये देवा स्थन त्रिष्वा रोचने दिवः ।कद्व ऋतं कदनृतं क्व प्रत्ना व आहुतिर्वित्तं मे अस्य रोदसी ॥५॥
कद्व ऋतस्य धर्णसि कद्वरुणस्य चक्षणम् ।कदर्यम्णो महस्पथाति क्रामेम दूढ्यो वित्तं मे अस्य रोदसी ॥६॥
अहं सो अस्मि यः पुरा सुते वदामि कानि चित् ।तं मा व्यन्त्याध्यो वृको न तृष्णजं मृगं वित्तं मे अस्य रोदसी ॥७॥
सं मा तपन्त्यभितः सपत्नीरिव पर्शवः ।मूषो न शिश्ना व्यदन्ति माध्य स्तोतारं ते शतक्रतो वित्तं मे अस्य रोदसी ॥८॥
अमी ये सप्त रश्मयस्तत्रा मे नाभिरातता ।त्रितस्तद्वेदाप्त्यः स जामित्वाय रेभति वित्तं मे अस्य रोदसी ॥९॥
अमी ये पञ्चोक्षणो मध्ये तस्थुर्महो दिवः ।देवत्रा नु प्रवाच्यं सध्रीचीना नि वावृतुर्वित्तं मे अस्य रोदसी ॥१०॥
सुपर्णा एत आसते मध्य आरोधने दिवः ।ते सेधन्ति पथो वृकं तरन्तं यह्वतीरपो वित्तं मे अस्य रोदसी ॥११॥*नव्यं तदुक्थ्यं हितं देवासः सुप्रवाचनम् ।ऋतमर्षन्ति सिन्धवः सत्यं तातान सूर्यो वित्तं मे अस्य रोदसी ॥१२॥
अग्ने तव त्यदुक्थ्यं देवेष्वस्त्याप्यम् ।स नः सत्तो मनुष्वदा देवान्यक्षि विदुष्टरो वित्तं मे अस्य रोदसी ॥१३॥
सत्तो होता मनुष्वदा देवाँ अच्छा विदुष्टरः ।अग्निर्हव्या सुषूदति देवो देवेषु मेधिरो वित्तं मे अस्य रोदसी ॥१४॥
ब्रह्मा कृणोति वरुणो गातुविदं तमीमहे ।व्यूर्णोति हृदा मतिं नव्यो जायतामृतं वित्तं मे अस्य रोदसी ॥१५॥
असौ यः पन्था आदित्यो दिवि प्रवाच्यं कृतः ।न स देवा अतिक्रमे तं मर्तासो न पश्यथ वित्तं मे अस्य रोदसी ॥१६॥
त्रितः कूपेऽवहितो देवान्हवत ऊतये ।तच्छुश्राव बृहस्पतिः कृण्वन्नंहूरणादुरु वित्तं मे अस्य रोदसी ॥१७॥
अरुणो मा सकृद्वृकः पथा यन्तं ददर्श हि ।उज्जिहीते निचाय्या तष्टेव पृष्ट्यामयी वित्तं मे अस्य रोदसी ॥१८॥
एनाङ्गूषेण वयमिन्द्रवन्तोऽभि ष्याम वृजने सर्ववीराः ।तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥१९॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.