ऋग्वेदसंहिता · Mandala 1
सूक्तम् १.१०
Ask AIऋषिः — मधुच्छन्दा वैश्वामित्रः · दे. इन्द्रः। अनुष्टुप्
गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः ।ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे ॥१॥
यत्सानोः सानुमारुहद्भूर्यस्पष्ट कर्त्वम् ।तदिन्द्रो अर्थं चेतति यूथेन वृष्णिरेजति ॥२॥
युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा ।अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर ॥३॥
एहि स्तोमाँ अभि स्वराभि गृणीह्या रुव ।ब्रह्म च नो वसो सचेन्द्र यज्ञं च वर्धय ॥४॥
उक्थमिन्द्राय शंस्यं वर्धनं पुरुनिष्षिधे ।शक्रो यथा सुतेषु णो रारणत्सख्येषु च ॥५॥
तमित्सखित्व ईमहे तं राये तं सुवीर्ये ।स शक्र उत नः शकदिन्द्रो वसु दयमानः ॥६॥
सुविवृतं सुनिरजमिन्द्र त्वादातमिद्यशः ।गवामप व्रजं वृधि कृणुष्व राधो अद्रिवः ॥७॥
नहि त्वा रोदसी उभे ऋघायमाणमिन्वतः ।जेषः स्वर्वतीरपः सं गा अस्मभ्यं धूनुहि ॥८॥
आश्रुत्कर्ण श्रुधी हवं नू चिद्दधिष्व मे गिरः ।इन्द्र स्तोममिमं मम कृष्वा युजश्चिदन्तरम् ॥९॥
विद्मा हि त्वा वृषन्तमं वाजेषु हवनश्रुतम् ।वृषन्तमस्य हूमह ऊतिं सहस्रसातमाम् ॥१०॥
आ तू न इन्द्र कौशिक मन्दसानः सुतं पिब ।नव्यमायुः प्र सू तिर कृधी सहस्रसामृषिम् ॥११॥
परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः ।वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टयः ॥१२॥
Rigveda by the Vedic rishis (seers), each named with their hymns. Sanskrit text of the Samhita (1,028 suktas), with each sukta’s rishi, deity and metre, as transcribed by the contributors of Sanskrit Wikisource. Source: Sanskrit Wikisource. The Rigveda itself is ancient and in the public domain; this transcription is shared by Wikisource under CC BY-SA 4.0.