Loading…
Loading…
Mantra Pushpam (Taittiriya Aranyaka — "Yo'pam Pushpam Veda")
Mantra in Sanskrit.
Dharmasthan is a digital devotional platform for devotees, families, and community mandals. Reading is free and requires no account.
Source: Verified against SD, VG
Traditional / public-domain text published for cultural preservation.
Content status: verified
Mantra Pushpam (Taittiriya Aranyaka — "Yo'pam Pushpam Veda")
ॐ योऽपां पुष्पं वेद । पुष्पवान् प्रजावान् पशुमान् भवति ।
चंद्रमा वा अपां पुष्पम् । पुष्पवान् प्रजावान् पशुमान् भवति ।
य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति ॥ १ ॥
अग्निर्वा अपामायतनम् । आयतनवान् भवति ।
योऽग्नेरायतनं वेद । आयतनवान् भवति ।
आपो वा अग्नेरायतनम् । आयतनवान् भवति ।
य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति ॥ २ ॥
वायुर्वा अपामायतनम् । आयतनवान् भवति ।
यो वायोरायतनं वेद । आयतनवान् भवति ।
आपो वै वायोरायतनम् । आयतनवान् भवति ।
य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति ॥ ३ ॥
असौ वै तपन्नपामायतनम् । आयतनवान् भवति ।
योऽमुष्य तपत आयतनं वेद । आयतनवान् भवति ।
आपो वाऽमुष्य तपत आयतनम् । आयतनवान् भवति ।
य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति ॥ ४ ॥
चंद्रमा वा अपामायतनम् । आयतनवान् भवति ।
यश्चंद्रमस आयतनं वेद । आयतनवान् भवति ।
आपो वै चंद्रमस आयतनम् । आयतनवान् भवति ।
य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति ॥ ५ ॥
नक्षत्राणि वा अपामायतनम् । आयतनवान् भवति ।
यो नक्षत्राणामायतनं वेद । आयतनवान् भवति ।
आपो वै नक्षत्राणामायतनम् । आयतनवान् भवति ।
य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति ॥ ६ ॥
पर्जन्यो वा अपामायतनम् । आयतनवान् भवति ।
यः पर्जन्यस्यायतनं वेद । आयतनवान् भवति ।
आपो वै पर्जन्यस्यायतनम् । आयतनवान् भवति ।
य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति ॥ ७ ॥
संवत्सरो वा अपामायतनम् । आयतनवान् भवति ।
यस्संवत्सरस्यायतनं वेद । आयतनवान् भवति ।
आपो वै संवत्सरस्यायतनम् । आयतनवान् भवति ।
य एवं वेद । योऽप्सुनावं प्रतिष्ठितां वेद । प्रत्येव तिष्ठति ॥ ८ ॥
Mantra Pushpam (Taittiriya Aranyaka — "Yo'pam Pushpam Veda") is a traditional devotional Aarti sung in worship of the divine. Devotees recite it during morning and evening prayers to invoke blessings, peace, and spiritual harmony.
Yes. Reading Mantra Pushpam (Taittiriya Aranyaka — "Yo'pam Pushpam Veda") lyrics, transliteration, and English meanings is completely free on Dharmasthan with no registration or payment required.
Yes. You can read it directly here, use our dedicated solo read mode (pustak view), or include it in curated playlists for festival celebrations.
Information verified as of October 2026.
Read with purity of heart and devotion 🙏
More Aartis →