आरती कुञ्ज बिहारी की
Aarti Kunj Bihari Ki
आरती संग्रह
👁 4Loading…
Madhurashtakam (Adharam Madhuram)
Krishna ashtak in Sanskrit.
Dharmasthan is a digital devotional platform for devotees, families, and community mandals. Reading is free and requires no account.
Source: Verified against SD, VG, WS
Traditional / public-domain text published for cultural preservation.
Content status: verified
Madhurashtakam (Adharam Madhuram)
अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् ।
हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ १ ॥
वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम् ।
चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ २ ॥
वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ ।
नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ३ ॥
गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम् ।
रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ४ ॥
करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरम् ।
वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ५ ॥
गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा ।
सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ६ ॥
गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरम् ।
दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ७ ॥
गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा ।
दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ८ ॥
॥ इति श्रीमद्वल्लभाचार्यविरचितं मधुराष्टकं सम्पूर्णम् ॥
Madhurashtakam (Adharam Madhuram) is a traditional devotional Aarti sung in worship of Krishna. Devotees recite it during morning and evening prayers to invoke blessings, peace, and spiritual harmony.
Yes. Reading Madhurashtakam (Adharam Madhuram) lyrics, transliteration, and English meanings is completely free on Dharmasthan with no registration or payment required.
Yes. You can read it directly here, use our dedicated solo read mode (pustak view), or include it in curated playlists for festival celebrations.
Information verified as of October 2026.
Read with purity of heart and devotion 🙏
More Krishna Aartis →आरती कुञ्ज बिहारी की
आरती संग्रह
👁 4अच्युताष्टकम् (अच्युतं केशवं रामनारायणम्)
आरती संग्रह
गोविन्दाष्टकम् (सत्यं ज्ञानमनन्तं नित्यम्)
आरती संग्रह
कृष्णाष्टकम् (वसुदेवसुतं देवं कंसचाणूरमर्दनम्)
आरती संग्रह
कृष्णाय वासुदेवाय हरये परमात्मने (श्लोक)
आरती संग्रह
श्री कृष्ण गायत्री मन्त्र
आरती संग्रह