Loading…
Loading…
Ganga Stotram
Ganga stotram in Sanskrit.
Dharmasthan is a digital devotional platform for devotees, families, and community mandals. Reading is free and requires no account.
Source: Adi Shankaracharya (Sanskrit Documents gangastotra)
Traditional / public-domain text published for cultural preservation.
Content status: verified
Ganga Stotram
॥ श्री गङ्गा स्तोत्रम् (श्रीमच्छङ्कराचार्यविरचितम्) ॥
देवि सुरेश्वरि भगवति गङ्गे
त्रिभुवनतारिणि तरलतरङ्गे ।
शङ्करमौलिविहारिणि विमले
मम मतिरास्तां तव पदकमले ॥ १॥
भागीरथि सुखदायिनि मात-
स्तव जलमहिमा निगमे ख्यातः ।
नाऽहं जाने तव महिमानं
पाहि कृपामयि मामज्ञानम् ॥ २॥
हरिपदपाद्यतरङ्गिणि गङ्गे
हिमविधुमुक्ताधवलतरङ्गे ।
दूरीकुरु मम दुष्कृतिभारं
कुरु कृपया भवसागरपारम् ॥ ३॥
तव जलममलं येन निपीतं
परमपदं खलु तेन गृहीतम् ।
मातर्गङ्गे त्वयि यो भक्तः
किल तं द्रष्टुं न यमः शक्तः ॥ ४॥
पतितोद्धारिणि जाह्नवि गङ्गे
खण्डितगिरिवरमण्डितभङ्गे ।
भीष्मजननि हे मुनिवरकन्ये
पतितनिवारिणि त्रिभुवनधन्ये ॥ ५॥
कल्पलतामिव फलदाम् लोके
प्रणमति यस्त्वां न पतति शोके ।
पारावारविहारिणि गङ्गे
विमुखयुवतिकृततरलापाङ्गे ॥ ६॥
तव चेन्मातः स्रोतः स्नातः
पुनरपि जठरे सोऽपि न जातः ।
नरकनिवारिणि जाह्नवि गङ्गे
कलुषविनाशिनि महिमोत्तुङ्गे ॥ ७॥
पुनरसदङ्गे पुण्यतरङ्गे
जय जय जाह्नवि करुणापाङ्गे ।
इन्द्रमुकुटमणिराजितचरणे
सुखदे शुभदे भृत्यशरण्ये ॥ ८॥
रोगं शोकं तापं पापं
हर मे भगवति कुमतिकलापम् ।
त्रिभुवनसारे वसुधाहारे
त्वमसि गतिर्मम खलु संसारे ॥ ९॥
अलकानन्दे परमानन्दे
कुरु करुणामयि कातरवन्द्ये ।
तव तटनिकटे यस्य निवासः
खलु वैकुण्ठे तस्य निवासः ॥ १०॥
वरमिह नीरे कमठो मीनः
किं वा तीरे शरटः क्षीणः ।
अथवा श्वपचो मलिनो दीन-
स्तव न हि दूरे नृपतिकुलीनः ॥ ११॥
भो भुवनेश्वरि पुण्ये धन्ये
देवि द्रवमयि मुनिवरकन्ये ।
गङ्गास्तवमिमममलं नित्यं
पठति नरो यः स जयति सत्यम् ॥ १२॥
येषां हृदये गङ्गाभक्ति-
स्तेषां भवति सदा सुखमुक्तिः ।
मधुराकान्तापञ्झटिकाभिः
परमानन्दकलितललिताभिः ॥ १३॥
गङ्गास्तोत्रमिदं भवसारं
वाञ्छितफलदम् विमलं सारम् ।
शङ्करसेवकशङ्कररचितं
पठति सुखी स्तव इति च समाप्तः ॥ १४॥
॥ इति श्रीमच्छङ्कराचार्यविरचितं गङ्गास्तोत्रं सम्पूर्णम् ॥
Ganga Stotram is a traditional devotional Aarti sung in worship of Ganga. Devotees recite it during morning and evening prayers to invoke blessings, peace, and spiritual harmony.
Yes. Reading Ganga Stotram lyrics, transliteration, and English meanings is completely free on Dharmasthan with no registration or payment required.
Yes. You can read it directly here, use our dedicated solo read mode (pustak view), or include it in curated playlists for festival celebrations.
Information verified as of October 2026.
Read with purity of heart and devotion 🙏
More Ganga Aartis →